श्रवणम्

9.97.14 समानपद
र॒साय्य॒ः पय᳚सा॒ पिन्व᳚मान ई॒रय᳚न्नेषि॒ मधु᳚मन्तमं॒शुम् ।
पव᳚मानः संत॒निमे᳚षि कृ॒ण्वन्निन्द्रा᳚य सोम परिषि॒च्यमा᳚नः ॥
▶ पदपाठः (Word-by-word)
र॒साय्यः᳚ । पय᳚सा । पिन्व᳚मानः । ई॒रय᳚न् । ए॒षि॒ । मधु᳚॑मन्तम् । अं॒शुम् ।
पव᳚मानः । स॒म्॑त॒निम् । ए॒षि॒ । कृ॒ण्वन् । इन्द्रा᳚य । सो॒म॒ । प॒रि॒॑सि॒च्यमा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम रसाय्यः रसेरौणादिकआय्यप्रत्ययः । आस्वाद्यः पयसायुक्तः पिन्वमानः क्षरन् त्वं ईरयन् शब्दंप्रेरयन् मधुमन्तं माधुर्योपेतं अंशुं रसभावं एषि प्राप्नोषि । अंशुःशमष्टमा- त्रोभवतीतियास्कः । अनेन सोमरसोभिधीयते । किंच हेसोम परिषिच्यमानः अद्भिः परि षिक्तस्त्वं पवमानः पवित्रेपूयमानःसन् संतनिं तनुविस्तारे इप्रत्ययः संततांधारां कृण्वन् कुर्वन्निन्द्राय इंद्रार्थं एषि गच्छसि ॥ १४ ॥