श्रवणम्

9.97.15
ए॒वा प᳚वस्व मदि॒रो मदा᳚योदग्रा॒भस्य᳚ न॒मय᳚न्वध॒स्नैः ।
परि॒ वर्णं॒ भर᳚माणो॒ रुश᳚न्तं ग॒व्युर्नो᳚ अर्ष॒ परि᳚ सोम सि॒क्तः ॥
▶ पदपाठः (Word-by-word)
ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा᳚य । उ॒द॒॑ग्रा॒भस्य᳚ । न॒मय᳚न् । व॒ध॒॑स्नैः ।
परि᳚ । वर्ण᳚म् । भर᳚माणः । रुश᳚न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि᳚ । सो॒म॒ । सि॒क्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम मदिरोमदकरस्त्वं उदग्राभस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रदानसंज्ञा चतु र्थ्यर्थेबहुलमितिषष्ठी । उदग्राभं उदकग्राहिणंमेघं वधस्नैः हननसाधनैरायुधैः नमयन् वृष्ट्य- र्थंप्रह्वीकुर्वन् मदाय मदार्थमेव पवस्व एवं पात्रेषुक्षर । किंच रुशंतं आरोचमानं श्वेतं वर्णं परिभरमाणः परितोबिभ्रत् सिक्तः पवित्रेसिच्यमानस्त्वं गव्युः नोस्माकं गाइच्छन् पर्यर्ष परिगच्छ ॥ १५ ॥