ए॒ष प्र॒त्नेन॒ वय᳚सा पुना॒नस्ति॒रो वर्पां᳚सि दुहि॒तुर्दधा᳚नः ।
वसा᳚न॒ः शर्म᳚ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम᳚नेषु॒ रेभ᳚न् ॥
वसा᳚न॒ः शर्म᳚ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम᳚नेषु॒ रेभ᳚न् ॥
पदपाठः (Word-by-word)
ए॒षः । प्र॒त्नेन᳚ । वय᳚सा । पु॒ना॒नः । ति॒रः । वर्पां᳚सि । दु॒हि॒तुः । दधा᳚नः ।
वसा᳚नः । शर्म᳚ । त्रि॒॑वरू᳚थम् । अ॒प्॑सु । होता᳚॑इव । या॒ति॒ । सम᳚नेषु । रेभ᳚न् ॥
वसा᳚नः । शर्म᳚ । त्रि॒॑वरू᳚थम् । अ॒प्॑सु । होता᳚॑इव । या॒ति॒ । सम᳚नेषु । रेभ᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
प्रत्नेन पूर्वकालीनेन वयसा अन्नेन पुनानः पूयमानः अन्नात्मिकया धारया क्षरन्नित्य- र्थः तादृशः दुहितुः सर्वस्यदोग्ध्र्याः पृथिव्यां वर्पांसि वर्पइतिरूपनाम वृणोति शरीरमिति रूपाणि तिरोदधानः स्वतेजसा तिरस्कुर्वन् आच्छादयन् तथा त्रिवरूथं त्रिभूमिकोपेतं यद्वा त्रयः शीतातपवर्षाः तेषां निवारकं शर्म यज्ञगृहं वसानः आच्छादयन् अप्सु वसती- वरीषुस्थितः एषसोमः होतेव यथाहोता स्तुतिध्वनिं कुर्वन् यज्ञेषु याति तद्वत् रेभन् शब्दायमानःसन् समनेषु समन्ति कर्माणिधृष्टाः प्रगल्भायंत्यत्रेति समना यज्ञाः तेषु याति गच्छति ॥ ४७ ॥