श्रवणम्

9.97.45
सोमः᳚ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य᳚क्षाः ।
आ योनिं॒ वन्य᳚मसदत्पुना॒नः समिन्दु॒र्गोभि᳚रसर॒त्सम॒द्भिः ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । सु॒तः । धार᳚या । अत्यः᳚ । न । हित्वा᳚ । सिन्धुः᳚ । न । नि॒म्नम् । अ॒भि । वा॒जी । अ॒क्षा॒रिति᳚ ।
आ । योनि᳚म् । वन्य᳚म् । अ॒स॒द॒त् । पु॒ना॒नः । सम् । इन्दुः᳚ । गोभिः᳚ । अ॒स॒र॒त् । सम् । अ॒त्॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतोभिषुतः सोमोधारयास्वीयया अत्योनअतनशीलोश्वइव हित्वागत्वा हिनोतेः क्वनि- पिरूपम् । किंच वाजी बलवान् सोमः सिन्धुर्न यथासिन्धुः स्यन्दमाना नदी निम्नं प्रदेश- मभिगच्छति तद्वत् निम्नमधरभाविनं कलशमभ्यक्षाः अभिक्षरति । ततः पुनानः पूयमानः सोमः वन्यं वृक्षभवं योनिं योनिस्थानं कलशं आसदत् आसीदति । सोयमिन्दुः सोमः गीर्भिर्गोविकारैः क्षीरादिभिः श्रयणैः सं असरत् संसरति तथा अद्भिर्वसतीवरोभिश्च संग- च्छते ॥ ४५ ॥