श्रवणम्

9.87.7
ए॒ष सु᳚वा॒नः परि॒ सोमः᳚ प॒वित्रे॒ सर्गो॒ न सृ॒ष्टो अ᳚दधाव॒दर्वा᳚ ।
ति॒ग्मे शिशा᳚नो महि॒षो न शृङ्गे॒ गा ग॒व्यन्न॒भि शूरो॒ न सत्वा᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । सि॒वा॒नः । परि᳚ । सोमः᳚ । प॒वित्रे᳚ । सर्गः᳚ । न । सृ॒ष्टः । अ॒द॒धा॒व॒त् । अर्वा᳚ ।
ति॒ग्मे इति᳚ । शिशा᳚नः । म॒हि॒षः । न । शृङ्गे॒ इति᳚ । गाः । ग॒व्यन् । अ॒भि । शूरः᳚ । न । सत्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसुवानः सूयमानः अर्वा अरणकुशलः सोमः सर्गोनसृष्टः विसृष्टोश्वइव पवित्रे पर्य- दधावत् परिधावति । किंच तिग्मे तीक्ष्णे श्रृंगे शिशानः तीक्ष्णीकुर्वन् महिषोन महान् महिषाख्योसगइव । तथान्यदृष्टान्तः—गा गव्यन् प्रभूतागाइच्छन् शूरोन शूरइव एतौ महि- षशूरौ यथा प्रतिबृद्धौ शीघ्रं धावतः तद्वत् सत्वा सदनशीलोयं अभिगच्छतीतिशेषः ॥ ७ ॥