श्रवणम्

9.87.5
ए॒ते सोमा᳚ अ॒भि ग॒व्या स॒हस्रा᳚ म॒हे वाजा᳚या॒मृता᳚य॒ श्रवां᳚सि ।
प॒वित्रे᳚भि॒ः पव᳚माना असृग्रञ्छ्रव॒स्यवो॒ न पृ᳚त॒नाजो॒ अत्या᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमाः᳚ । अ॒भि । ग॒व्या । स॒हस्रा᳚ । म॒हे । वाजा᳚य । अ॒मृता᳚य । श्रवां᳚सि ।
प॒वित्रे᳚भिः । पव᳚मानाः । अ॒सृ॒ग्र॒न् । श्र॒व॒स्यवः᳚ । न । पृ॒त॒नाजः᳚ । अत्याः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतेसोमाः गव्या गव्यानि सहस्रा सहस्राणि श्रवांस्यन्नानि आशिरलक्षणानि लक्षीकृ- त्य पवित्रेभिः पवित्रच्छिद्रैः पवमानाः पूयमानाः महे महते वाजायान्नाय अमृताय अमृ- तत्वाय अभ्यसृग्रन् सृज्यन्ते । किमिच्छवः श्रवस्यवः अन्नेच्छवः पृतनाजः सेनाजेतारः अत्यान अश्वाइव ॥ ५ ॥