श्रवणम्

9.87.3
ऋषि॒र्विप्र᳚ः पुरए॒ता जना᳚नामृ॒भुर्धीर᳚ उ॒शना॒ काव्ये᳚न ।
स चि᳚द्विवेद॒ निहि᳚तं॒ यदा᳚सामपी॒च्यं१॒᳚ गुह्यं॒ नाम॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
ऋषिः᳚ । विप्रः᳚ । पु॒रः॒॑ए॒ता । जना᳚नाम् । ऋ॒भुः । धीरः᳚ । उ॒शना᳚ । काव्ये᳚न ।
सः । चि॒त् । वि॒वे॒द॒ । नि॑हि᳚तम् । यत् । आ॒सा॒म् । अ॒पी॒च्य᳚म् । गुह्य᳚म् । नाम᳚ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरतीन्द्रियद्रष्टा विप्रोमेधावी पुरएता पुरतोगन्ता मनानां मनुष्याणां ऋभुः उरु- भासमानः धीरोधीमान् उशना एतन्नामाऋषिः यः सचित् सएव काव्येन कवित्वेन स्तोत्रेण विवेद लभते । किं यदासां गोनां गवां अपीच्यंअंतर्हितनामैतत् अंतर्हितं गुह्यं गोपनीयं नाम नामकमुदकं पयोलक्षणं निहितं स्थापितं लभतइत्यर्थः ॥ ३ ॥