श्रवणम्

9.114.3
स॒प्त दिशो॒ नाना᳚सूर्याः स॒प्त होता᳚र ऋ॒त्विजः᳚ ।
दे॒वा आ᳚दि॒त्या ये स॒प्त तेभि᳚ः सोमा॒भि र᳚क्ष न॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
स॒प्त । दिशः᳚ । नाना᳚॑सूर्याः । स॒प्त । होता᳚रः । ऋ॒त्विजः᳚ ।
दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः᳚ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्तदिशः सोमोयस्यां दिशि वर्तते तद्भ्यतिरिक्ताः सप्तभवन्ति ताः नानासूर्याः नाना- विधैः सूर्यैरधिष्ठिताऋतवोभवन्ति नानालिंगत्वादृतूनां नानासूर्यत्वमित्याम्नानात् । यद्वा नानासूर्याइति दिग्विशेषणम् । तथा होतारः वषट् कर्तारोहोत्रादयः सप्तऋत्विजोभवन्ति किंच सप्तआदित्याः अदितेः पुत्राधात्रादयोमार्तंडवर्जिताः ये सप्तदेवाः सन्ति । एतत्तु— अष्टौ पुत्रासोअदितेः । इत्यत्र प्रपंचयिष्यते । हे सोम तेभिस्तैः दिगादिभिः सर्वैर्नोस्मान- भिरक्ष । एतत्तु त्वया विना नघटतइति तस्मादिन्द्रायेन्दो परिस्रव ॥ ३ ॥