श्रवणम्

9.114.2
ऋषे᳚ मन्त्र॒कृतां॒ स्तोमै॒ः कश्य᳚पोद्व॒र्धय॒न्गिरः᳚ ।
सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
ऋषे᳚ । म॒न्त्र॒॑कृता᳚म् । स्तोमैः᳚ । कश्य᳚प । उ॒त्॑व॒र्धय᳚न् । गिरः᳚ ।
सोम᳚म् । न॒म॒स्य॒ । राजा᳚नम् । यः । ज॒ज्ञे । वी॒रुधा᳚म् । पतिः᳚ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः स्वात्मानं प्रत्याह हे ऋषे सूक्तद्रष्टः हे कश्यप आत्मन् त्वं मंत्रकृतामृषीणां स्तोमैः स्तोत्रैः गिरः स्तुतिरूपावाचः उद्वर्धयन्नुपर्युपरिर्धन् राजानं सर्वेषां स्वामिनं तं सोमं नमस्य मनसा पूजय नमसः पूजायां नमोवरिवइति क्यच् । यः सोमः वीरुधां वनस्पतीनां पतिः पालकः सजज्ञे जातः तं नमस्य हे सोम यथा आत्मना सुतोभवसि तथा परिस्रव ॥ २ ॥