स मा᳚मृजे ति॒रो अण्वा᳚नि मे॒ष्यो᳚ मी॒ळ्हे सप्ति॒र्न वा᳚ज॒युः ।
अ॒नु॒माद्य॒ः पव᳚मानो मनी॒षिभि॒ः सोमो॒ विप्रे᳚भि॒रृक्व᳚भिः ॥
अ॒नु॒माद्य॒ः पव᳚मानो मनी॒षिभि॒ः सोमो॒ विप्रे᳚भि॒रृक्व᳚भिः ॥
पदपाठः (Word-by-word)
सः । म॒मृ॒जे॒ । ति॒रः । अण्वा᳚नि । मे॒ष्यः᳚ । मी॒ळ्हे । सप्तिः᳚ । न । वा॒ज॒॑युः ।
अ॒नु॒॑माद्यः᳚ । पव᳚मानः । म॒नी॒षि॑भिः᳚ । सोमः᳚ । विप्रे᳚भिः । ऋक्व᳚॑भिः ॥
अ॒नु॒॑माद्यः᳚ । पव᳚मानः । म॒नी॒षि॑भिः᳚ । सोमः᳚ । विप्रे᳚भिः । ऋक्व᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
वाजयुरन्नकामः अण्वानि अणूनि सूक्ष्माणि मेष्यः मेष्याः अवेः रोमाणि पवित्राणि तिरस्कुर्वन् व्यवधायकानि कुर्वाणः सन् आपवसे इतिशेषः । हरिर्हरितवर्णः ससोमः ममृजे परिशोध्यते अलंक्रियतेवा । तत्र दृष्टान्तः—सप्तिर्न यथा जयकामैः अश्वोमीह्ळे संग्रामे अलंक्रियते । कीदृशः अनुमाद्यः अनुमोदनीयः सर्वैः पवमानः मनीषिभिः ऋत्विग्भिः पूयमानः तथा ऋक्वभिः छन्दसि वनिपाविति वनिप् स्तुतिमद्भिः विप्रैर्मेधाविभिः अभि- ष्टुतः मृज्यते ॥ ११ ॥