परि᳚ सुवा॒नश्चक्ष᳚से देव॒माद᳚न॒ः क्रतु॒रिन्दु᳚र्विचक्ष॒णः ॥
पदपाठः (Word-by-word)
परि᳚ । सु॒वा॒नः । चक्ष᳚से । दे॒व॒॑माद᳚नः । क्रतुः᳚ । इन्दुः᳚ । वि॒॑च॒क्ष॒णः ॥
सायणभाष्यम् (Sayana Commentary)
सुवानोभिषूयमाणः सोमः चक्षसे सर्वेषां दर्शनाय परिस्रवति । कीदृशः देवमादनः देवानां तर्पयिता क्रतुः कर्ता इन्दुः पात्रेषु क्षरणशीलः दीप्तोवा विचक्षणः स्वर्वस्य विद्र- ष्टा ॥ ३ ॥