उ॒ताहं नक्त᳚मु॒त सो᳚म ते॒ दिवा᳚ स॒ख्याय᳚ बभ्र॒ ऊध᳚नि ।
घृ॒णा तप᳚न्त॒मति॒ सूर्यं᳚ प॒रः श᳚कु॒ना इ᳚व पप्तिम ॥
घृ॒णा तप᳚न्त॒मति॒ सूर्यं᳚ प॒रः श᳚कु॒ना इ᳚व पप्तिम ॥
पदपाठः (Word-by-word)
उ॒त । अ॒हम् । नक्त᳚म् । उ॒त । सो॒म॒ । ते॒ । दिवा᳚ । स॒ख्याय᳚ । ब॒भ्रो॒ इति᳚ । ऊध᳚नि ।
घृ॒णा । तप᳚न्तम् । अति᳚ । सूर्य᳚म् । प॒रः । श॒कु॒नाः॑इ᳚व । प॒प्ति॒म॒ ॥
घृ॒णा । तप᳚न्तम् । अति᳚ । सूर्य᳚म् । प॒रः । श॒कु॒नाः॑इ᳚व । प॒प्ति॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे बभ्रो बभ्रुवर्ण हे सोम उतापिच नक्तं उतापिच दिवा अहोरात्रयोः सख्याय सख्या र्थं तव ऊधनि समीपे अहं रमइति शेषः । ते वयं घृणा दीप्त्या तपन्तं ज्वलन्तं परः पर मस्थानस्थितं सूर्यं तदात्मकं त्वां प्राप्तुं अतिपप्तिम । कथमिव शकुनाइव यथा सुपर्णादयः पक्षिणः सूर्यं अतिगच्छन्ति तद्वत् पतॢगतौ अस्माच्छान्दसे लिटि तनिपत्योश्छन्दसीत्युप- धालोपः ॥ २० ॥ ग्रावस्तोत्रेभिरूपकरणे सोमेमृज्यामनेएकस्तृचः तत्र मृज्यमानइत्येषा तृतीया । सूत्रि- तंच—मृज्यमानः सुहस्त्यादशभिर्विवस्वतइति ।