श्रवणम्

9.107.15 समानपद
तर᳚त्समु॒द्रं पव᳚मान ऊ॒र्मिणा॒ राजा᳚ दे॒व ऋ॒तं बृ॒हत् ।
अर्ष᳚न्मि॒त्रस्य॒ वरु᳚णस्य॒ धर्म᳚णा॒ प्र हि᳚न्वा॒न ऋ॒तं बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
तर᳚त् । स॒मु॒द्रम् । पव᳚मानः । ऊ॒र्मिणा᳚ । राजा᳚ । दे॒वः । ऋ॒तम् । बृ॒हत् ।
अर्ष᳚त् । मि॒त्रस्य᳚ । वरु᳚णस्य । धर्म᳚णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः पूयमानः देवोद्योतमानः बृहत् अत्यन्तं ऋतं सत्यभूतं राजा सोमः समुद्र- मन्तरिक्षं कलशंवा ऊर्मिणा धारया तरत् तरति । हिन्वानः प्रेर्यमाणः ऋतं बृहत् अत्यन्तं सत्यभूतः ससोमः मित्रस्य वरुणस्य मित्रावरुणयोः धर्मणा धारणार्थं प्रार्षन् प्रगच्छति ॥ १५ ॥