दु॒हा॒न ऊध᳚र्दि॒व्यं मधु᳚ प्रि॒यं प्र॒त्नं स॒धस्थ॒मास᳚दत् ।
आ॒पृच्छ्यं᳚ ध॒रुणं᳚ वा॒ज्य᳚र्षति॒ नृभि᳚र्धू॒तो वि᳚चक्ष॒णः ॥
आ॒पृच्छ्यं᳚ ध॒रुणं᳚ वा॒ज्य᳚र्षति॒ नृभि᳚र्धू॒तो वि᳚चक्ष॒णः ॥
पदपाठः (Word-by-word)
दु॒हा॒नः । ऊधः᳚ । दि॒व्यम् । मधु᳚ । प्रि॒यम् । प्र॒त्नम् । स॒ध॑स्थ᳚म् । आ । अ॒स॒द॒त् ।
आ॒॑पृच्छ्य᳚म् । ध॒रुण᳚म् । वा॒जी । अ॒र्ष॒ति॒ । नृ॑भिः᳚ । धू॒तः । वि॒॑च॒क्ष॒णः ॥
आ॒॑पृच्छ्य᳚म् । ध॒रुण᳚म् । वा॒जी । अ॒र्ष॒ति॒ । नृ॑भिः᳚ । धू॒तः । वि॒॑च॒क्ष॒णः ॥
सायणभाष्यम् (Sayana Commentary)
मधु मदकरं प्रियं प्रीणनकारि दिव्यं दिविभवं ऊधः सोमवल्लीलक्षणं दुहानः सोमः प्रत्नं पुरातनं सधस्थं सहतिष्ठन्तं स्थानमन्तरिक्षमासदत् आसीदति सदेर्लुङि रूपम् । अतः आपृच्छ्यं कर्मण्याप्रष्टव्यं धरुणं कमर्णोधारयितारं यजमानं वाजी अन्नवान् सोमः अर्षति तस्मै अन्नं दातुमभिगच्छति । कीदृशः नृभिः कर्मनेतृभिः ऋत्विग्भिः धूतः अदाभ्यः ग्रहे परिशोधितः । तैरेनं चतुराधूनोति प्रंचकृत्वः सप्तकृत्वोवेति आपस्तंबेन सूत्रितम् । विचक्षणः सर्वस्य विद्रष्टा ॥ ५ ॥