श्रवणम्

9.107.6
पु॒ना॒नः सो᳚म॒ जागृ᳚वि॒रव्यो॒ वारे॒ परि᳚ प्रि॒यः ।
त्वं विप्रो᳚ अभ॒वो॑ङ्गि᳚रस्तमो॒ मध्वा᳚ य॒ज्ञं मि᳚मिक्ष नः ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । सो॒म॒ । जागृ᳚विः । अव्यः᳚ । वारे᳚ । परि᳚ । प्रि॒यः ।
त्वम् । विप्रः᳚ । अ॒भ॒वः॒ । अङ्गि᳚रः॑तमः । मध्वा᳚ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम जागृविर्जागरणशीलः प्रियः प्रीणयिता त्वं पुनानः पूयमानः सन् अव्यः अवे- र्वारे वाले पवित्रे परिक्षरसि । किंच विप्रोमेधावी त्वं अंगिरस्तमः अंगिरसां वरिष्ठः पि- तॄणां नेता भवोभवसि सत्वं नोस्मदीयं यज्ञं मध्वा मधुना आत्मीयेन रसेन मिमिक्ष सिं- च मिहेः सेचनार्थस्य सनि रूपं ॥ ६ ॥