श्रवणम्

9.107.25
पव᳚माना असृक्षत प॒वित्र॒मति॒ धार᳚या ।
म॒रुत्व᳚न्तो मत्स॒रा इ᳚न्द्रि॒या हया᳚ मे॒धाम॒भि प्रयां᳚सि च ॥
▶ पदपाठः (Word-by-word)
पव᳚मानाः । अ॒सृ॒क्ष॒त॒ । प॒वित्र᳚म् । अति᳚ । धार᳚या ।
म॒रुत्व᳚न्तः । म॒त्स॒राः । इ॒न्द्रि॒याः । हयाः᳚ । मे॒धाम् । अ॒भि । प्रयां᳚सि । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानाः पूयमानाः सोमाः धारया आत्मीयया पवित्रं अतीत्यासृक्षत सृज्यन्ते । की दृशामरुत्वन्तः मरुद्भिर्युक्तामत्सराः मदकराः इन्द्रियाः इन्द्रजुष्टाः मेधां स्तुतिं प्रयांस्य- न्नानिच अभिलभ्या स्तोतृभ्यउभयं कर्तुं वा हयाः गन्तारः एते सृज्यन्ते ॥ २५ ॥