ज॒नय॒ञ्ज्योति᳚र्म॒न्दना᳚ अवीवश॒द्गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ॥
पदपाठः (Word-by-word)
ज॒नय᳚न् । ज्योतिः᳚ । म॒न्दनाः᳚ । अ॒वी॒व॒श॒त् । गाः । कृ॒ण्वा॒नः । न । निः॒॑निज᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अपोवसतीवरीर्वसानआच्छादयन् सोतृभिरिषुण्वद्भिर्हियानः प्रेर्यमाणइन्दुः सोमः कोशं कलशं पर्यर्षति प्रतिगच्छति । किंच ज्योतिर्दीप्तिं जनयन् उत्पादयन् गाः गव्यानि क्षीरा- दीनि निर्णिजं आत्मानं रूपं कृण्वानः कुर्वन् मिश्रयन् सोयं सोमः नः संप्रत्यर्थे इदानीं मन्दानाः स्तुतीः अवीवशत् कामयते । वशकान्तौ लुङि चङि रूपं ॥ २६ ॥
पवस्वेति षोडशर्चं पंचमं सूक्तम् । आद्यद्वृचस्य गौरिवीतिर्नामशक्तिपुत्रऋषिः तृतीया- याः शक्तिर्नामवासिष्ठः ततः पंचानां द्वृचानां ऊरुर्नामांगिरसः ऋजिश्वानाम भारद्वाजः ऊर्ध्वसद्भ्यानामांगिरसः कृतयशानामकश्चित् सोप्यांगिरसः ऋणंचयोनामराजर्षिः इत्येते क्रमेण ऋषयः । एवं वयोदशगताः । ततस्तिसृणां वासिष्ठः शक्तिः प्रथमातृतीयाद्ययुजः ककुभः द्वितीयाचतुर्थ्याद्यायुजः सतोबृहत्यः । ससुन्वेयोवसूनामित्येषातु यवमध्या गायत्री । पवमानः सोमोदेवता । तथाचानुक्रम्यते—पवस्वषोळशगौरिवीति द्वृचं शक्तिरेकामूरुरृजि- श्वोर्ध्वसद्भ्याकृतयशाऋणंचयइत्यृषयोद्वृचास्तिस्रः शक्तिः काकुभाः प्रगाथाः ससुन्वे गाय- त्रीयवमध्येति । गतोविनियोगः ।