मृ॒ज्यमा᳚नः सुहस्त्य समु॒द्रे वाच᳚मिन्वसि ।
र॒यिं पि॒शङ्गं᳚ बहु॒लं पु᳚रु॒स्पृहं॒ पव᳚माना॒भ्य᳚र्षसि ॥
र॒यिं पि॒शङ्गं᳚ बहु॒लं पु᳚रु॒स्पृहं॒ पव᳚माना॒भ्य᳚र्षसि ॥
पदपाठः (Word-by-word)
मृ॒ज्यमा᳚नः । सु॒॑ह॒स्त्य॒ । स॒मु॒द्रे । वाच᳚म् । इ॒न्व॒सि॒ ।
र॒यिम् । पि॒शङ्ग᳚म् । ब॒हु॒लम् । पु॒रु॒॑स्पृह᳚म् । पव᳚मान । अ॒भि । अ॒र्ष॒सि॒ ॥
र॒यिम् । पि॒शङ्ग᳚म् । ब॒हु॒लम् । पु॒रु॒॑स्पृह᳚म् । पव᳚मान । अ॒भि । अ॒र्ष॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुहस्त्य हस्ते भवाहस्त्या अंगुलयः शोभनांगुलिक सोम मृज्यमानः शोध्यमानस्त्वं समुद्रेन्तरिक्षे कलशे वा वाचं शब्दमिन्वसि प्रेरयसि । किंच हे पवमान पूयमान सोम पिशंगं हिरण्यैः पिशंगवर्णं बहुलं प्रभूतं पुरुस्पृहं बहुभिः स्पृहणीयं रयिं धनं अभ्यर्षसि स्तोतॄणांअभिक्षरसि प्रयच्छसि ॥ २१ ॥