तवा॒हं सो᳚म रारण स॒ख्य इ᳚न्दो दि॒वेदि᳚वे ।
पु॒रूणि᳚ बभ्रो॒ नि च᳚रन्ति॒ मामव᳚ परि॒धी{4}रति॒ ता{4} इ᳚हि ॥
पु॒रूणि᳚ बभ्रो॒ नि च᳚रन्ति॒ मामव᳚ परि॒धी{4}रति॒ ता{4} इ᳚हि ॥
पदपाठः (Word-by-word)
तव᳚ । अ॒हम् । सो॒म॒ । र॒र॒ण॒ । स॒ख्ये । इ॒न्दो॒ इति᳚ । दि॒वे॑दि᳚वे ।
पु॒रूणि᳚ । ब॒भ्रो॒ इति᳚ । नि । च॒र॒न्ति॒ । माम् । अव᳚ । प॒रि॒॑धीन् । अति᳚ । तान् । इ॒हि॒ ॥
पु॒रूणि᳚ । ब॒भ्रो॒ इति᳚ । नि । च॒र॒न्ति॒ । माम् । अव᳚ । प॒रि॒॑धीन् । अति᳚ । तान् । इ॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दोहे सोम तव सख्ये सखिकर्मण्यहं दिवेदिवे अन्वहं रारण रमे रणेर्लिटउत्तमे णलि रूपम् । हे बभ्रो बभ्रुवर्ण सोम पुरूणि बहूनि रक्षांसि मां तत्र सख्ये स्थितं न्यव- चरन्ति नीचीनं चरन्ति बाधन्ते ये मां बाधन्ते तान् परिधीन् राक्षसांस्त्वं अतीहि अतीत्य गच्छ जहीति यावत् ॥ १९ ॥