श्रवणम्

9.107.1
परी॒तो षि᳚ञ्चता सु॒तं सोमो॒ य उ᳚त्त॒मं ह॒विः ।
द॒ध॒न्वा{4} यो नर्यो᳚ अ॒प्स्व१॒᳚न्तरा सु॒षाव॒ सोम॒मद्रि᳚भिः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः᳚ । यः । उ॒त्॑त॒मम् । ह॒विः ।
द॒ध॒न्वान् । यः । नर्यः᳚ । अ॒प्॑सु । अ॒न्तः । आ । सु॒साव᳚ । सोम᳚म् । अद्रि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋत्विजः सुतमभिषुतं सोमं इतः अस्मात्कर्मणऊर्ध्वं अथवा अस्मात् प्रदेशादुर्ध्वं परिषिंचत वसतीवरीभिः । इतोषिंचतेत्यत्र संहितायां छन्दसीति रोरुत्त्वेम् । यः सोमः देवानामुत्तमं प्रशस्यं हविर्भवति । आ अपिच नर्योमनुष्यहितोयश्चसोमः अप्सु वसतीवरी- षु अन्तरिक्षेवा अन्तर्दधन्वान् गच्छन् भवति तं सोममद्रिभिर्ग्रावभिः अध्वर्युः सुषाव अ- भिषुतं चकार तं परिषिंचतेति समन्वयः ॥ १ ॥