श्रवणम्

9.107.22
मृ॒जा॒नो वारे॒ पव᳚मानो अ॒व्यये॒ वृषाव᳚ चक्रदो॒ वने᳚ ।
दे॒वानां᳚ सोम पवमान निष्कृ॒तं गोभि᳚रञ्जा॒नो अ᳚र्षसि ॥
▶ पदपाठः (Word-by-word)
मृ॒जा॒नः । वारे᳚ । पव᳚मानः । अ॒व्यये᳚ । वृषा᳚ । अव᳚ । च॒क्र॒दः॒ । वने᳚ ।
दे॒वाना᳚म् । सो॒म॒ । प॒व॒मा॒न॒ । निः॒॑कृ॒तम् । गोभिः᳚ । अ॒ञ्जा॒नः । अ॒र्ष॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वृषा वर्षिता त्वं मृजानः वसतीवरीभिर्मृज्यमानः अलंक्रियमाणः अव्यये अवि मये वारे वाले पवित्रे पवमानः पूयमानः सन् वने वननीये उदके काष्ठे कलशेवा अव- चक्रदः अवक्रन्दसि शब्दायसे । ततो हो सोमः हे पवमान त्वं गोभिर्गव्यैः क्षीरादिभिः अंजानः अज्यमानः सन् निःकृतं संस्कृतं देवानां स्थानं अर्षसि गच्छसि ॥ २२ ॥