श्रवणम्

9.107.2
नू॒नं पु᳚ना॒नो॑वि᳚भि॒ः परि᳚ स्र॒वाद᳚ब्धः सुर॒भिन्त᳚रः ।
सु॒ते चि᳚त्त्वा॒प्सु म᳚दामो॒ अन्ध᳚सा श्री॒णन्तो॒ गोभि॒रुत्त᳚रम् ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । पु॒ना॒नः । अवि᳚॑भिः । परि᳚ । स्र॒व॒ । अद᳚ब्धः । सु॒र॒भिम्॑त᳚रः ।
सु॒ते । चि॒त् । त्वा॒ । अ॒प्॑सु । म॒दा॒मः॒ । अन्ध᳚सा । श्री॒णन्तः᳚ । गोभिः᳚ । उत्॑त᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अदब्धः कैश्चिदप्यहिंसितः सुरभिन्तरः अत्यन्तं सुगन्धिः त्वं नूनमिदानीं पु- नानः पूयमानः सन् अविभिर्विवालकृतैः पवित्रैः तेभ्यः परिस्रव परितः क्षर सुतेचित् अभिषुते सति अंधसा सक्तुलक्षणेनान्नेन गोभिर्गोविकारैःक्षीरादिभिः श्रीणन्तः मिश्रयन्तो- वयं उत्तरमुद्गततरं अप्सु वसतीवरीषु संस्थितं त्वां मदामः मंदामहे स्तुमः ॥ २ ॥