सोमो᳚ मी॒ढ्वान्प᳚वते गातु॒वित्त᳚म॒ ऋषि॒र्विप्रो᳚ विचक्ष॒णः ।
त्वं क॒विर᳚भवो देव॒वीत᳚म॒ आ सूर्यं᳚ रोहयो दि॒वि ॥
त्वं क॒विर᳚भवो देव॒वीत᳚म॒ आ सूर्यं᳚ रोहयो दि॒वि ॥
पदपाठः (Word-by-word)
सोमः᳚ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्॑त᳚मः । ऋषिः᳚ । विप्रः᳚ । वि॒॑च॒क्ष॒णः ।
त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒॑वीत᳚मः । आ । सूर्य᳚म् । रो॒ह॒यः॒ । दि॒वि ॥
त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒॑वीत᳚मः । आ । सूर्य᳚म् । रो॒ह॒यः॒ । दि॒वि ॥
सायणभाष्यम् (Sayana Commentary)
मीढ्वान् कामानां सेक्ता सोमोभवन् पवते क्षरति । कीदृशः गातुवित्तमः अत्यन्तं मार्ग- स्य लंभकः ऋषिः सर्वस्य प्रदर्शकः विप्रोमेधावी विचक्षणोविद्रष्टा । किंच कविः क्रान्त- प्रज्ञस्त्वं देववीतमः अत्यन्तं देवकामो भवोभवसि । अपिच दिवि द्युलोके सूर्यमारोहयः प्रादुर्भावयसि ॥ ७ ॥