श्रवणम्

9.64.18
परि᳚ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज᳚सा ।
पा॒हि न॒ः शर्म᳚ वी॒रव᳚त् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । नः॒ । या॒हि॒ । अ॒स्म॒॑युः । विश्वा᳚ । वसू᳚नि । ओज᳚सा ।
पा॒हि । नः॒ । शर्म᳚ । वी॒र॑व᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमास्मयुरस्मत्कामस्त्वं नोस्माकं विश्वा विश्वानि वसूनि धनानि ओजसा बलेन सह परियाहि रक्षार्थं परिगच्छ । अपिच नोस्माकं वीरवत् पुत्रवत् शर्म गृहं पाहि रक्ष ॥ १८ ॥