श्रवणम्

9.64.23
तं त्वा॒ विप्रा᳚ वचो॒विद॒ः परि᳚ ष्कृण्वन्ति वे॒धसः᳚ ।
सं त्वा᳚ मृजन्त्या॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । विप्राः᳚ । व॒चः॒॑विदः᳚ । परि᳚ । कृ॒ण्व॒न्ति॒ । वे॒धसः᳚ ।
सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तं पवमानं त्वा त्वां विप्राः प्राज्ञा वेधसः कर्मणांकर्तारो वचोविदः स्तोतारः परिष्कृण्वन्ति अलंकुर्वन्ति । अपिच त्वा त्वामायवोमनुष्याः संमृजन्ति सम्यक् शोधयन्ति ॥ २३ ॥