श्रवणम्

9.64.14
पु॒ना॒नो वरि᳚वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः ।
हरे᳚ सृजा॒न आ॒शिर᳚म् ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । वरि᳚वः । कृ॒धि॒ । ऊर्ज᳚म् । जना᳚य । गि॒र्व॒णः॒ ।
हरे᳚ । सृ॒जा॒नः । आ॒॑शिर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणो गीर्भिर्वननीय हरे हरितवर्ण सोम आशिरं क्षीरं प्रतिसृजानो विसृज्यमानः पुनानः पूयमानस्त्वं जनाय यजमानार्थं वरिवोधनमूर्जमन्नंच कृधि कुरु ॥ १४ ॥