रसं᳚ ते मि॒त्रो अ᳚र्य॒मा पिब᳚न्ति॒ वरु᳚णः कवे ।
पव᳚मानस्य म॒रुतः᳚ ॥
पव᳚मानस्य म॒रुतः᳚ ॥
पदपाठः (Word-by-word)
रस᳚म् । ते॒ । मि॒त्रः । अ॒र्य॒मा । पिब᳚न्ति । वरु᳚णः । क॒वे॒ ।
पव᳚मानस्य । म॒रुतः᳚ ॥
पव᳚मानस्य । म॒रुतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे कवे क्रान्तकर्मन् सोम पवमानस्य क्षरतस्ते तव रसं मित्रः अर्यमा च वरुणश्च मरुतश्चैते सर्वेदेवाः पिबन्ति ॥ २४ ॥