पु॒ना॒न इ᳚न्दवेषां॒ पुरु᳚हूत॒ जना᳚नाम् ।
प्रि॒यः स᳚मु॒द्रमा वि᳚श ॥
प्रि॒यः स᳚मु॒द्रमा वि᳚श ॥
पदपाठः (Word-by-word)
पु॒ना॒नः । इ॒न्दो॒ इति᳚ । ए॒षा॒म् । पुरु᳚॑हूत । जना᳚नाम् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पुरुहूत बहुभिराहूत इन्दो सोम पुनानः पूयमानस्त्वं एषामस्मिन् यागे स्तोत्रं कुर्वतां जनानां प्रियः सन् समुद्रं द्रोणकलशमाविश प्रविश ॥ २७ ॥