श्रवणम्

9.11.6
नम॒सेदुप᳚ सीदत द॒ध्नेद॒भि श्री᳚णीतन ।
इन्दु॒मिन्द्रे᳚ दधातन ॥
▶ पदपाठः (Word-by-word)
नम᳚सा । इत् । उप᳚ । सी॒द॒त॒ । द॒ध्ना । इत् । अ॒भि । श्री॒णी॒त॒न॒ ।
इन्दु᳚म् । इन्द्रे᳚ । द॒धा॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजो नमसेत् नमस्कारेणैव उपसीदत सोममुपगच्छत । दध्नेत् दध्नैव अभिश्रीणीतन अभिश्रीणीतच । इन्द्रे इन्दुं सोमं दधातन धत्तच ॥ ६ ॥