हस्त᳚च्युतेभि॒रद्रि᳚भिः सु॒तं सोमं᳚ पुनीतन ।
मधा॒वा धा᳚वता॒ मधु᳚ ॥
मधा॒वा धा᳚वता॒ मधु᳚ ॥
पदपाठः (Word-by-word)
हस्त᳚॑च्युतेभिः । अद्रि᳚॑भिः । सु॒तम् । सोम᳚म् । पु॒नी॒त॒न॒ ।
मधौ᳚ । आ । धा॒व॒त॒ । मधु᳚ ॥
मधौ᳚ । आ । धा॒व॒त॒ । मधु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋत्विजः हस्तच्युतेभिः हस्तप्रच्युतैः अद्रिभिः अभिषवग्रावभिः सुतमभिषुतं सोमं पुनीतन पवित्र पावयत । अपिच मधौ मदकरे सोमे मधु गव्यं पयआधावत प्रक्षिपत ॥ ५ ॥