सोमा᳚ असृग्र॒मिन्द᳚वः सु॒ता ऋ॒तस्य॒ साद᳚ने ।
इन्द्रा᳚य॒ मधु᳚मत्तमाः ॥
इन्द्रा᳚य॒ मधु᳚मत्तमाः ॥
पदपाठः (Word-by-word)
सोमाः᳚ । अ॒सृ॒ग्र॒म् । इन्द᳚वः । सु॒ताः । ऋ॒तस्य᳚ । सद᳚ने ।
इन्द्रा᳚य । मधु᳚मत्॑तमाः ॥
इन्द्रा᳚य । मधु᳚मत्॑तमाः ॥
सायणभाष्यम् (Sayana Commentary)
सुताः अभिषुताः महुमत्तमाः अतिशयेन मधुमन्तः इन्दवः सोमाः ऋतस्य यज्ञस्य सादने सदने इन्द्रायेन्द्रार्थं असृग्रं सृज्यन्ते ॥ १ ॥