श्रवणम्

9.12.3
म॒द॒च्युत्क्षे᳚ति॒ साद᳚ने॒ सिन्धो᳚रू॒र्मा वि᳚प॒श्चित् ।
सोमो᳚ गौ॒री अधि᳚ श्रि॒तः ॥
▶ पदपाठः (Word-by-word)
म॒द॒॑च्युत् । क्षे॒ति॒ । सद᳚ने । सिन्धोः᳚ । ऊ॒र्मा । वि॒पः॒॑चित् ।
सोमः᳚ । गौ॒री इति᳚ । अधि᳚ । श्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मदच्युत् मदकरस्य रसस्य च्यावयिता सोमः सादने सदने । संहितायां दीर्घश्छान्दसः स्थाने क्षेति निवसति । एतदेवविवृणोति-सिन्धोर्नद्याः ऊर्मा ऊर्मौ तरंगे वसतीवरीष्वित्यर्थः । विपश्चित् विद्वान् सोमोगौरीअधि गौर्यामधि । अधीति सप्तम्यर्थानुवादः । माध्यमिकायांवाचि । गौरी गांधर्वीति वाङ्गामसुपाठात् । श्रितोमिश्रयति ॥ ३ ॥