श्रवणम्

9.12.7
नित्य᳚स्तोत्रो॒ वन॒स्पति᳚र्धी॒नाम॒न्तः स᳚ब॒र्दुघः᳚ ।
हि॒न्वा॒नो मानु᳚षा यु॒गा ॥
▶ पदपाठः (Word-by-word)
नित्य᳚॑स्तोत्रः । वन॒स्पतिः᳚ । धी॒नाम् । अ॒न्तरिति᳚ । स॒बः॒॑दुघः᳚ ।
हि॒न्वा॒नः । मानु᳚षा । यु॒गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

नित्यस्तोत्रः सन्ततस्तोत्रः सबर्दुघः अमृतस्य दोग्धा वनस्पतिः वनानांपालयिता सोमो मानुषामानुषाणि युगा युगानि अहीनैकाहात्मकानि हिन्वानः प्रीणयन् धीनां कर्मणाम न्तर्मध्ये निवसतीत्यर्थः ॥ ७ ॥