श्रवणम्

9.12.4
दि॒वो नाभा᳚ विचक्ष॒णो॑व्यो॒ वारे᳚ महीयते ।
सोमो॒ यः सु॒क्रतु᳚ः क॒विः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । नाभा᳚ । वि॒॑च॒क्ष॒णः । अव्यः᳚ । वारे᳚ । म॒ही॒य॒ते॒ ।
सोमः᳚ । यः । सु॒॑क्रतुः᳚ । क॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सुक्ततुः सुप्रज्ञः कविः क्रान्तकर्मा विचक्षणोविद्रष्टा ससोमोदिवोन्तरिक्षस्य नाभा नाभा नाभिभूते अव्यः अवेः वारे वाले महीयते पूज्यते पूयमानः स्तूयतइत्यर्थः ॥ ४ ॥