श्रवणम्

9.12.2
अ॒भि विप्रा᳚ अनूषत॒ गावो᳚ व॒त्सं न मा॒तरः᳚ ।
इन्द्रं॒ सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । विप्राः᳚ । अ॒नू॒ष॒त॒ । गावः᳚ । व॒त्सम् । न । मा॒तरः᳚ ।
इन्द्र᳚म् । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्राः मेधाविनः सोमस्य पीतये पानाय इन्द्रं मातरोजनयित्र्योगावो वत्संन यथा वत्सं प्रति तद्वदभ्यनूषत अभिशब्दयन्ति ॥ २ ॥