यः सोमः᳚ क॒लशे॒ष्वा{4} अ॒न्तः प॒वित्र॒ आहि᳚तः ।
तमिन्दु॒ः परि᳚ षस्वजे ॥
तमिन्दु॒ः परि᳚ षस्वजे ॥
पदपाठः (Word-by-word)
यः । सोमः᳚ । क॒लशे᳚षु । आ । अ॒न्तरिति᳚ । प॒वित्रे᳚ । आ॑हि᳚तः ।
तम् । इन्दुः᳚ । परि᳚ । स॒स्व॒जे॒ ॥
तम् । इन्दुः᳚ । परि᳚ । स॒स्व॒जे॒ ॥
सायणभाष्यम् (Sayana Commentary)
यः सोमः कलशेषु कुंभेषु आस्ते यश्च पवित्रे पवित्रस्यान्तर्मध्ये आहितः निहितस्तं स्वांशभूतं सोममिन्दुः सोमोदेवः परिषस्वजे प्रविशति ॥ ५ ॥