श्रवणम्

9.76.3
इन्द्र᳚स्य सोम॒ पव᳚मान ऊ॒र्मिणा᳚ तवि॒ष्यमा᳚णो ज॒ठरे॒ष्वा वि᳚श ।
प्र णः᳚ पिन्व वि॒द्युद॒भ्रेव॒ रोद᳚सी धि॒या न वाजा{4}॒ उप᳚ मासि॒ शश्व᳚तः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । सो॒म॒ । पव᳚मानः । ऊ॒र्मिणा᳚ । त॒वि॒ष्यमा᳚णः । ज॒ठरे᳚षु । आ । वि॒श॒ ।
प्र । नः॒ । पि॒न्व॒ । वि॒॑द्युत् । अ॒भ्रा॑इ᳚व । रोद᳚सी॒ इति᳚ । धि॒या । न । वाजा᳚न् । उप᳚ । मा॒सि॒ । शश्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमानः पूयमानस्त्वं तविष्यमाणो वर्धयिष्यमाणःसन् इन्द्रस्य जठरेषु ऊर्मिणा प्रभूत्याधारया विश जठरप्रदेशस्य बाहुल्यात् बहुवचनम् । नोस्मदर्थं विद्युदभ्रेव अभ्राणीव सा यथा दोग्धि अभ्राणि तद्वत् प्रपिन्व धुक्ष रोदसी द्यावापृथिव्यौ । किंच धिया कमर्णान इदानीं नेतिसंप्रत्यर्थे शश्वतः बहुनामैत् बहून् वाजान् अन्नानि उपसमीपे मासि निर्मासि ॥ ३ ॥