श्रवणम्

9.76.4
विश्व᳚स्य॒ राजा᳚ पवते स्व॒र्दृश᳚ ऋ॒तस्य᳚ धी॒तिमृ᳚षि॒षाळ᳚वीवशत् ।
यः सूर्य॒स्यासि᳚रेण मृ॒ज्यते᳚ पि॒ता म᳚ती॒नामस᳚मष्टकाव्यः ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । राजा᳚ । प॒व॒ते॒ । स्वः॒॑दृशः᳚ । ऋ॒तस्य᳚ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् ।
यः । सूर्य᳚स्य । असि᳚रेण । मृ॒ज्यते᳚ । पि॒ता । म॒ती॒नाम् । अस᳚मष्ट॑काव्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वस्य जगतोराजा स्वामी सोमः पवते पूयते । स्वर्दृशः स्वर्गद्रष्टुः सर्वद्रष्टुर्वा ऋतस्य सत्यभूतस्येन्द्रस्य मनुष्यवाच्यनृतशब्दप्रतियोगिकस्य ऋतशब्दस्य देवार्थः तत्रा- प्यौचित्येनेन्द्रः प्रतिगृह्यते । तस्य धीतिं मतिं कर्मवा ऋषिषाट् ऋषीणामतीन्द्रियद्रष्टृणां अभिभविता समहत्त्वेन स्वयमप्यृषिश्रेष्ठत्वादितिभावः । तथाचमंत्रान्तरं—ब्रह्मादेवानांपद- वीः कवीनामिति । ईदृशः सोमः अवीवशत् अकामयतेन्द्रस्यकर्म । यः सोमः सूर्यस्य देवस्यासि- रेण क्षेपकेण रश्मिना मृज्यते असमष्टकाव्यः अन्यैः कविभिरव्याप्तकर्मा सोमोमतीनां अस्म- दीयानां स्तुतीनां पिता पालकः स्वामी भवतीतिशेषः । यद्वा योमतीनां पिता असमष्ट- काव्यश्चसन् मृज्यते सपवतइतिसंबन्धः ॥ ४ ॥