रु॒वति᳚ भी॒मो वृ᳚ष॒भस्त᳚वि॒ष्यया॒ शृङ्गे॒ शिशा᳚नो॒ हरि᳚णी विचक्ष॒णः ।
आ योनिं॒ सोम॒ः सुकृ᳚तं॒ नि षी᳚दति ग॒व्ययी॒ त्वग्भ᳚वति नि॒र्णिग॒व्ययी᳚ ॥
आ योनिं॒ सोम॒ः सुकृ᳚तं॒ नि षी᳚दति ग॒व्ययी॒ त्वग्भ᳚वति नि॒र्णिग॒व्ययी᳚ ॥
पदपाठः (Word-by-word)
रु॒वति᳚ । भी॒मः । वृ॒ष॒भः । त॒वि॒ष्यया᳚ । शृङ्गे॒ इति᳚ । शिशा᳚नः । हरि᳚णी॒ इति᳚ । वि॒॑च॒क्ष॒णः ।
आ । योनि᳚म् । सोमः᳚ । सु॑कृ᳚तम् । नि । सी॒द॒ति॒ । ग॒व्ययी᳚ । त्वक् । भ॒व॒ति॒ । निः॒॑निक् । अ॒व्ययी᳚ ॥
आ । योनि᳚म् । सोमः᳚ । सु॑कृ᳚तम् । नि । सी॒द॒ति॒ । ग॒व्ययी᳚ । त्वक् । भ॒व॒ति॒ । निः॒॑निक् । अ॒व्ययी᳚ ॥
सायणभाष्यम् (Sayana Commentary)
भीमः शत्रूणांभयंकरः वृषभः कामानांउदकानां वा वर्षणः विचक्षणः सर्वस्यविदर्शन- शीलः सपवमानः तविष्यया तुइतिवृध्यर्थः अस्मादचइरितीप्रत्ययः तस्मादिच्छायामर्थेक्यच् सर्वप्रातिपदिकेभ्यइति सुगागमः आत्मनोबलेच्छया हरिणी हरितवर्णे द्वे शृंगे शिशानः तीक्ष्णीकुर्वन् प्रतिद्रोणकलशंप्रति द्वाभ्यांधाराभ्यां स्थाल्याग्रयणं गृह्णाति । तदुच्यते ते धारा रूपशृंगे तीक्ष्णीकुर्वन् रुवति शब्दायते । रुशब्दे बहुलंछन्दसीतिशः । ततः ससोमः सुकृतं सुष्ठु कृतं योनिं स्वस्थानं द्रोणकलशमानिषीदति समन्तात्तिष्ठति । सोमस्य निर्णिक् निर्नेक्त्री परिशोधयित्री गव्ययी गोमयी त्वक् भवति । आनडुहे हि चर्मणि सोमाभिषवः । एवमव्य- यी अविमयी त्वक् च निर्नेक्त्रीभवति तद्धि दशापवित्रपेक्ष्यमभिहितं ॥ ७ ॥