श्रवणम्

9.70.6 समानपद
स मा॒तरा॒ न ददृ᳚शान उ॒स्रियो॒ नान᳚ददेति म॒रुता᳚मिव स्व॒नः ।
जा॒नन्नृ॒तं प्र᳚थ॒मं यत्स्व᳚र्णरं॒ प्रश᳚स्तये॒ कम᳚वृणीत सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । मा॒तरा᳚ । न । ददृ᳚शानः । उ॒स्रियः᳚ । नान᳚दत् । ए॒ति॒ । म॒रुता᳚म्॑इव । स्व॒नः ।
जा॒नन् । ऋ॒तम् । प्र॒थ॒मम् । यत् । स्वः᳚॑नरम् । प्र॑श᳚स्तये । कम् । अ॒वृ॒णी॒त॒ । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपवमानः मातरा मातरौ द्यावापृथिव्यौ ददृशानः पुनः पश्यन् ततोनानदत् भृशं- शब्दं कुर्वन् एति सर्वत्रगच्छति । तत्रदृष्टातः—उस्रियोन गोनाम तस्य स्वरूपतोवत्सः यथा मातरं गां पश्यन् शब्दंकरोति तद्वत् । किंच मरुतामिव यथा मरुतांगणः स्वनः पचाद्य- जन्तः स्वनंकुर्वन् सर्वतोगच्छति तद्वत् । यदुदकं स्वर्णरं स्वरितिसर्वपर्यायः सर्वमनुष्यहितं- भवति सर्वे हि मनुष्या उदकेसंगच्छन्ते तत्कार्यत्वात् तादृशं प्रथमं मुख्यं ऋतमुदकं जानन् विद्वान् सुक्रतुः शोभनकर्मा सुप्रज्ञोवा सपवमानः प्रशस्तये प्रशंसनाय आत्मस्तोत्रकरणाय कं मनुष्यमवृणीत समभजत नान्यमस्मद्भ्यतिरिक्तमित्यर्थः ॥ ६ ॥