श्रवणम्

9.70.3
ते अ᳚स्य सन्तु के॒तवो॑मृ᳚त्य॒वो॑दा᳚भ्यासो ज॒नुषी᳚ उ॒भे अनु᳚ ।
येभि᳚र्नृ॒म्णा च᳚ दे॒व्या᳚ च पुन॒त आदिद्राजा᳚नं म॒नना᳚ अगृभ्णत ॥
▶ पदपाठः (Word-by-word)
ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः᳚ । अमृ᳚त्यवः । अदा᳚भ्यासः । ज॒नुषी॒ इति᳚ । उ॒भे इति᳚ । अनु᳚ ।
येभिः᳚ । नृ॒म्णा । च॒ । दे॒व्या᳚ । च॒ । पु॒न॒ते । आत् । इत् । राजा᳚नम् । म॒ननाः᳚ । अ॒गृ॒भ्ण॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यैतादृशस्य सोमस्य केतवः प्रज्ञापकाः सर्वैश्चायनीयाः अमृत्यवो मरणधर्मरहिताः अतएव अदाभ्यासः । दभेश्चेतिवक्तव्यमितिण्यत् । परैरहिंस्यास्ते तादृशा अस्यरश्मयः उभे जनुषी जन्मनी स्थावरजंगमात्मके द्वेअनुलक्षीकृत्य संतु रक्षन्तु । ओषधीनामयं सोमोरेतो- निषिंचति यज्ञे मनुष्याणां च धाराः स्रवन्ति खलु । सोयं येभिर्यैः केतुभिर्नृम्णा नृम्णानि बलानि देव्या देवार्हाणि चान्नानि प्रेरयति । आदिदभिषवानन्तरमेव राजानं सोमं मननाः मननीयाः स्तुतयः अगृभ्णत परिगृह्णन्ति प्राप्नुवन्तीत्यर्थः । हृग्रहोरिति भकारः ॥ ३ ॥