शुचि᳚ः पुना॒नस्त॒न्व᳚मरे॒पस॒मव्ये॒ हरि॒र्न्य᳚धाविष्ट॒ सान᳚वि ।
जुष्टो᳚ मि॒त्राय॒ वरु᳚णाय वा॒यवे᳚ त्रि॒धातु॒ मधु᳚ क्रियते सु॒कर्म᳚भिः ॥
जुष्टो᳚ मि॒त्राय॒ वरु᳚णाय वा॒यवे᳚ त्रि॒धातु॒ मधु᳚ क्रियते सु॒कर्म᳚भिः ॥
पदपाठः (Word-by-word)
शुचिः᳚ । पु॒ना॒नः । त॒न्व᳚म् । अ॒रे॒पस᳚म् । अव्ये᳚ । हरिः᳚ । नि । अ॒धा॒वि॒ष्ट॒ । सान᳚वि ।
जुष्टः᳚ । मि॒त्राय᳚ । वरु᳚णाय । वा॒यवे᳚ । त्रि॒॑धातु᳚ । मधु᳚ । क्रि॒य॒ते॒ । सु॒कर्म᳚॑भिः ॥
जुष्टः᳚ । मि॒त्राय᳚ । वरु᳚णाय । वा॒यवे᳚ । त्रि॒॑धातु᳚ । मधु᳚ । क्रि॒य॒ते॒ । सु॒कर्म᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
अरेपसं पापरहितम् । यद्वा रिपिगतौ गतिरहितं पात्रेस्थितं इत्यर्थः तादृशं तन्वंआत्मी- यं शरीरं पुनानः शोधयन् अतएव शुचिः पूतः दीप्यमानोवा हरिः हरितवर्णःसोमः सा- नवि सानुनि समुच्छ्रितः अव्ये अविवालकृते दशापवित्रे न्यधाविष्ट ऋत्विग्भिर्निधीयते । धूञ् कंपने स्यसिच् सीयुट् तासिष्विति कर्मणिलुङि चिण्वदिटियण् णित्वाद्वृद्धिः । ततः मित्राय वरुणाय वायवे एतेभ्योजुष्टः पर्याप्तः त्रिधातु त्रिसंधानः । वसतीवरीभिः दध्ना पय सा संस्पृष्टः सोमः त्रिधातु तादृशं मधु मदकरः सोमः सुकर्मभिः शोभनकर्मयुक्तैरृत्विक् भिः क्रियते मित्रादिदेवार्थं प्रदीयते ॥ ८ ॥