स मृ॒ज्यमा᳚नो द॒शभि᳚ः सु॒कर्म᳚भि॒ः प्र म᳚ध्य॒मासु᳚ मा॒तृषु᳚ प्र॒मे सचा᳚ ।
व्र॒तानि᳚ पा॒नो अ॒मृत᳚स्य॒ चारु᳚ण उ॒भे नृ॒चक्षा॒ अनु᳚ पश्यते॒ विशौ᳚ ॥
व्र॒तानि᳚ पा॒नो अ॒मृत᳚स्य॒ चारु᳚ण उ॒भे नृ॒चक्षा॒ अनु᳚ पश्यते॒ विशौ᳚ ॥
पदपाठः (Word-by-word)
सः । मृ॒ज्यमा᳚नः । द॒श॑भिः᳚ । सु॒कर्म᳚॑भिः । प्र । म॒ध्य॒मासु᳚ । मा॒तृषु᳚ । प्र॒॑मे । सचा᳚ ।
व्र॒तानि᳚ । पा॒नः । अ॒मृत᳚स्य । चारु᳚णः । उ॒भे इति᳚ । नृ॒॑चक्षाः᳚ । अनु᳚ । प॒श्य॒ते॒ । विशौ᳚ ॥
व्र॒तानि᳚ । पा॒नः । अ॒मृत᳚स्य । चारु᳚णः । उ॒भे इति᳚ । नृ॒॑चक्षाः᳚ । अनु᳚ । प॒श्य॒ते॒ । विशौ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सपवमानः सुकर्मभिः शोभनकर्मयुक्ताभीर्दशबिर्दशसंख्याकाभिरंगुलिभिर्मृज्यमानः सः सचा अग्नौप्रास्ताहुतिरित्यादिक्रमेणापांसहायः प्रमे लोकान् प्रमातुं मध्यमासु अन्तरिक्ष- स्थितास्ववतिष्ठते । प्रमे प्रपूर्वान्मातेः क्विपि ङयि आतइति योगविभागादाकारलोपः । किंच नृचक्षाः नृणांद्रष्टा पवमानः चारुणः कल्याण्स्यामृतस्योदकस्य वृष्ट्यर्थं व्रतानि या- गादिकर्माणि पानोरक्षन् उभे विशौ मनुष्यान् देवांश्चांतरिक्षेण गच्छन् अनुपश्यते अनुप- श्यति मनुष्यानभिमतदानेन देवान् हविः प्रदानेनेति ॥ ४ ॥