श्रवणम्

9.70.2
स भिक्ष᳚माणो अ॒मृत᳚स्य॒ चारु᳚ण उ॒भे द्यावा॒ काव्ये᳚ना॒ वि श᳚श्रथे ।
तेजि᳚ष्ठा अ॒पो मं॒हना॒ परि᳚ व्यत॒ यदी᳚ दे॒वस्य॒ श्रव᳚सा॒ सदो᳚ वि॒दुः ॥
▶ पदपाठः (Word-by-word)
सः । भिक्ष᳚माणः । अ॒मृत᳚स्य । चारु᳚णः । उ॒भे इति᳚ । द्यावा᳚ । काव्ये᳚न । वि । श॒श्र॒थे॒ ।
तेजि᳚ष्ठाः । अ॒पः । मं॒हना᳚ । परि᳚ । व्य॒त॒ । यदि᳚ । दे॒वस्य᳚ । श्रव᳚सा । सदः᳚ । वि॒दुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपवमानः चारुणः कल्याणस्यामृतस्य उदकस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रा दनसंज्ञा चतुर्थ्यर्थेबहुलमितिषष्ठी । चारूदकं भिक्षमाणः यष्टृभिर्याच्यमानःसन् उभे । द्यावा देशस्य द्वंद्वेविहितत्वादत्र उत्तरपदाभावे द्वंद्वः प्रतीयते । उभे द्यावापृथिव्यौ काव्येन कवि- कर्मणा विशश्रथे विवृतेकरोति । यज्ञेन निमित्तेन उदकेन संपूरयतीत्यर्थः । किंच तेजिष्ठाः अतिशयेनदीप्तानि अपउदकानि मंहना महत्त्वेन परिव्यत वर्णार्थं परितआच्छादयति । यदि यदा ऋत्विजः देवस्य द्योतमानस्य सोमस्य सदः स्थानं श्रवसा हविषा युक्ताःसन्तः विदुः यागार्थं जानन्ति लभन्ति तदा परित आवृणोतीति । विदज्ञाने सिजभ्यस्तेति झेर्जुसादेशः ॥ २ ॥