स म᳚र्मृजा॒न इ᳚न्द्रि॒याय॒ धाय᳚स॒ ओभे अ॒न्ता रोद᳚सी हर्षते हि॒तः ।
वृषा॒ शुष्मे᳚ण बाधते॒ वि दु᳚र्म॒तीरा॒देदि᳚शानः शर्य॒हेव᳚ शु॒रुधः᳚ ॥
वृषा॒ शुष्मे᳚ण बाधते॒ वि दु᳚र्म॒तीरा॒देदि᳚शानः शर्य॒हेव᳚ शु॒रुधः᳚ ॥
पदपाठः (Word-by-word)
सः । म॒र्मृ॒जा॒नः । इ॒न्द्रि॒याय᳚ । धाय᳚से । आ । उ॒भे इति᳚ । अ॒न्तरिति᳚ । रोद᳚सी॒ इति᳚ । ह॒र्ष॒ते॒ । हि॒तः ।
वृषा᳚ । शुष्मे᳚ण । बा॒ध॒ते॒ । वि । दुः॒॑म॒तीः । आ॒देदि᳚शानः । श॒र्य॒हा॑इ᳚व । शु॒रुधः᳚ ॥
वृषा᳚ । शुष्मे᳚ण । बा॒ध॒ते॒ । वि । दुः॒॑म॒तीः । आ॒देदि᳚शानः । श॒र्य॒हा॑इ᳚व । शु॒रुधः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
मर्मृजानः पवित्रेणमृज्यमानः सपवमानः धायसे जगतोधारकाय इन्द्रियाय इन्द्रस्यपर्या- प्ताय बलाय तदर्थं उभे रोदसी कालाध्वनोरिति द्वितीया उभयोर्द्यावापृथिव्योरन्तर्हितः मध्येवर्तमानःसन् आहर्षत । सर्वतोगच्छति । इन्द्रस्यहिसोमेन बलं भवति । वृषा कामाना- मुदकानां वा वर्षकः सोयं शुष्मेण शोषकेण बलेन दुर्मतीः दुष्टबुद्धीनसुरान् विबाधते वि- शेषेण पीडयति । किंकुर्वन् शुरुधः शुचा रुंधन्ति परानिति पृषोदरादिः दुःखकारिणोसुरा- नादेदिशानः पुनः पुनराह्वयन् हन्ति । तत्रदृष्टान्तः—शर्यहेव हननसाधनैरिषुभिः हन्ता वीरः प्रतिभटान् यथा हिनस्ति तद्वत् ॥ ५ ॥