श्रवणम्

9.44.3
अ॒यं दे॒वेषु॒ जागृ᳚विः सु॒त ए᳚ति प॒वित्र॒ आ ।
सोमो᳚ याति॒ विच᳚र्षणिः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । दे॒वेषु᳚ । जागृ᳚विः । सु॒तः । ए॒ति॒ । प॒वित्रे᳚ । आ ।
सोमः᳚ । या॒ति॒ । वि॑च᳚र्षणिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जागृविर्जागरणशीलोयं सोमोदेवेषु देवार्थं सुतोभिषुत आएति समन्ताद्गच्छति । अपि च विचर्षणिः विद्रष्टा सोमः पवित्रे याति पावनाय गच्छति ॥ ३ ॥