स नः᳚ पवस्व वाज॒युश्च᳚क्रा॒णश्चारु᳚मध्व॒रम् ।
ब॒र्हिष्मा{4}॒ आ वि᳚वासति ॥
ब॒र्हिष्मा{4}॒ आ वि᳚वासति ॥
पदपाठः (Word-by-word)
सः । नः॒ । प॒व॒स्व॒ । वा॒ज॒॑युः । च॒क्रा॒णः । चारु᳚म् । अ॒ध्व॒रम् ।
ब॒र्हिष्मा᳚न् । आ । वि॒वा॒स॒ति॒ ॥
ब॒र्हिष्मा᳚न् । आ । वि॒वा॒स॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम यं त्वां बर्हिष्मानृत्विगाविवासति परिचरति सत्वं नोस्मदर्थं वाजयुरन्नमि- च्छन्नध्वरं हिंसारहितं यागं च चारुं कल्याणं चक्राणः कुर्वन् पवस्व क्षर ॥ ४ ॥