स नो॒ भगा᳚य वा॒यवे॒ विप्र᳚वीरः स॒दावृ᳚धः ।
सोमो᳚ दे॒वेष्वा य᳚मत् ॥
सोमो᳚ दे॒वेष्वा य᳚मत् ॥
पदपाठः (Word-by-word)
सः । नः॒ । भगा᳚य । वा॒यवे᳚ । विप्र᳚॑वीरः । स॒दा॑वृ᳚धः ।
सोमः᳚ । दे॒वेषु᳚ । आ । य॒म॒त् ॥
सोमः᳚ । दे॒वेषु᳚ । आ । य॒म॒त् ॥
सायणभाष्यम् (Sayana Commentary)
सपवमानः सोमो वायवे वायुदेवार्थं भगाय भगदेवार्थं च विप्रवीरोविप्रैर्मेधाविभिः स्तुत्या प्रेरितः सदावृघोनित्यवृद्धोभवन् नोस्मभ्यं देवेषु स्थितं धनमायमदाप्रयच्छतु ॥ ५ ॥