श्रवणम्

9.44.2
म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति᳚ ।
विप्र᳚स्य॒ धार᳚या क॒विः ॥
▶ पदपाठः (Word-by-word)
म॒ती । जु॒ष्टः । धि॒या । हि॒तः । सोमः᳚ । हि॒न्वे॒ । प॒रा॒॑वति᳚ ।
विप्र᳚स्य । धार᳚या । क॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः क्रान्तकर्मा सोमो विप्रस्य मेधाविनः स्तोतुः मती मत्या स्तुत्या जुष्टः सेवितः धिया कर्मणा हितोयज्ञे सिहितः परावति पवित्राद्दूरदेशे धारया हिन्वे प्रेर्यते ॥ २ ॥