श्रवणम्

9.44.1
प्र ण᳚ इन्दो म॒हे तन᳚ ऊ॒र्मिं न बिभ्र᳚दर्षसि ।
अ॒भि दे॒वा{4} अ॒यास्य᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । नः॒ । इ॒न्दो॒ इति᳚ । म॒हे । तने᳚ । ऊ॒र्मिम् । न । बिभ्र᳚त् । अ॒र्ष॒सि॒ ।
अ॒भि । दे॒वान् । अ॒यास्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । नर्ममे तमहं वंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ सप्तमाष्टकस्य प्रथमोध्यायाअरभ्यते । प्रणइति षळृचं विंशं सूक्तं आंगिरसस्या यास्यस्यार्षं गायत्रं पवमानसोमदेवताकं तथाचानुक्रान्तं—प्रणोयास्यइति । गतोविनियोगः ।

हे इन्द्रो सोम त्वं नोस्माकं महे महते तने धनाय प्रार्षसि प्रगच्छसि । न संप्रति अया- स्यः स्वयं ऋषिस्तवोर्मिं तरंगं बिभ्रत् धारयन् देवानभिगच्छति यष्टुं ॥ १ ॥